रामनगर्याः अयोध्यायाः प्रसिद्धे हनुमानगढी-मन्दिरे प्रदत्तप्रसादस्य शुद्धतायाः विषये महत् प्रश्नः उद्भूतः। खाद्यसुरक्षा-औषधिप्रशासनस्य (FSDA) परीक्षणे बजरङ्गबलये अर्प्यमाणाः देशीघृतनिर्मिताः बेसनलड्डवः मानकान् नासम्पद्यन्त।
FSDA-कर्मचारीभिः गृहीतानां त्रयाणां नमूनानाम् मध्ये द्वौ असफलौ अभवताम्। आश्चर्यजनकं यत्— हनुमानगढीप्रसादस्य गुणविषये महन्तः पूर्वमेव चेतयित्वा उक्तवन्तः आसन् यत् लड्डवः केवलं उच्चगुणयुक्तेन बेसनेन, शुद्धघृतेन च निर्मीयन्ताम्। तस्मै प्रति-किलो ४५०–५०० रूप्यकाणि मूल्यं अपि निश्चितम् आसीत्। तथापि, शुद्धताविषये पुनः प्रश्नोत्थानात् श्रद्धालूनां मनसि चिन्ता जाताऽस्ति।
स्मरणीयं यत् अयोध्यां प्राप्ताः प्रायः ९९% श्रद्धालवः हनुमानगढी-रामललयोः दर्शनं कुर्वन्ति। रामजन्मभूमेः परिसरं प्रसाद-प्रवेशे निषिद्धं, किन्तु कनकभवने, हनुमानगढ्यां च भक्ताः परम्परानुसारं श्रद्धया प्रसादं अर्पयन्ति।
एवमेव, अयोध्याधामे एकस्मात् दुकानेन गृहीतः पनीरनमूनः अपि परीक्षणे असफलः अभवत्। अस्मात् कारणात् नगरस्य खाद्यपदार्थानां शुद्धतायाः विषये अपि नूतनाः प्रश्नाः उद्भूताः।





