---Advertisement---

चतुर्धामयात्रायाम्— २२ अक्टोबर् दिने गङ्गोत्रीधामस्य, २३ अक्टोबर् दिने यमुनोत्रीधामस्य कपाटाः पिधास्यन्ते।

On: Tuesday, September 30, 2025 12:39 PM
---Advertisement---

उत्तराखण्डराज्ये अस्य वर्षस्य चतुर्धामयात्रा इदानीं समापनदिशि गच्छति। परम्परानुसारं गङ्गोत्री-यमुनोत्रीधामयोः कपाटबन्धनस्य तिथयः प्रकाशिताः।

गङ्गोत्रीधामस्य कपाटाः २२ अक्टोबर् दिने अन्नकूटपर्वणि अभिजित्मुहूर्ते (प्रातः ११:३६ वादने) शीतकालाय बध्यन्ते। ततः अनन्तरं भक्ताः मातुः गङ्गायाः दर्शनं तस्याः शीतकालीननिवासस्थले मुखबाग्रामे करिष्यन्ति। यमुनोत्रीधामस्य कपाटाः २३ अक्टोबर् दिने भ्रातृद्वितीयापर्वणि शीतकालाय पिधास्यन्ते। तथापि, अस्य शुभमुहूर्तः विजयादशम्यां (२ अक्टोबर्) परम्परानुसारं निश्चितः भविष्यति।

अस्य वर्षस्य चतुर्धामयात्रा ३० अप्रैल् दिनाङ्के आरब्धा। तस्मिन् दिने एव यमुनोत्री-गङ्गोत्रीधामयोः कपाटाः उद्घाटिताः, २ मे दिनाङ्के केदारनाथधामस्य, ४ मे दिनाङ्के बदरीनाथधामस्य च कपाटाः उद्घाटिताः। २५ मे दिनाङ्के हेमकुण्डसाहिबयात्रा अपि प्रारब्धा।

चतुर्धामयात्रा केवलं श्रद्धालूनां भक्तिकेन्द्रं न, अपि तु उत्तराखण्डस्य अर्थव्यवस्थायाः मेरुदण्डः अपि मन्यते। यात्रया स्थानियजनानां रोजगारः, आयः च वर्धते। दिल्ली, हरियाणा, राजस्थान, मध्यप्रदेशादिभ्यः अनेकेभ्यः राज्येभ्यः आगता श्रद्धालवः क्षेत्रीय-अर्थव्यवस्थां सुदृढां कुर्वन्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment