यूपी-प्रदेशस्य ब्रजभूमौ मथुरानगरे शनिवासरे लोकसभाध्यक्षः ओम् बिरला धर्मपत्नी सहितः बरसानाग्रामं प्राप्तः। तत्र श्रीजी-मन्दिरे सः राधाराण्यै शीर्षं नत्वा प्रणामं कृतवान्।
अनन्तरं सः माताजी-गॊशालायां स्थितं रामकथां वदन्तं मोरारी-बापुम् उपसंगम्य आशीर्वादम् अलभत।
लोकसभाध्यक्षस्य आगमने भाजपाकार्यकर्तारः तस्मै दुपट्टिकां प्रावरणीकृत्य राधाकृष्णयोः चित्रं दत्वा सत्कारं कृतवन्तः। स्थानीयपुलिस-दलेन सह स्काउट्-गाइड्-दलः च तस्मै “गार्ड् ऑफ़् ऑनर्” दत्तवान्।
ततः पुनः ओम् बिरला श्रीजी-मन्दिरं प्राप्तः। तत्र मन्दिरसेवकाः तस्मै प्रसादीं प्रावरणीकृत्य प्रसादं दत्तवन्तः। सः उभाभ्यां हस्ताभ्यां प्रार्थनां कृत्वा राधाराण्याः चरणयोः नमनं कृतवान् तथा च राष्ट्रस्य समाजस्य च मंगलकामनां अकरोत्।

संकीर्तन-घण्टानां मधुरनिनादेन सह दर्शनं कृत्वा ओम् बिरलः अत्यन्तं भावविभोरः अभवत्।
मन्दिरदर्शनानन्तरं लोकसभाध्यक्षः ओम् बिरला माताजी-गॊशालायाः रामकथास्थलं प्राप्तवान्। तत्र व्यासपीठे विराजमानस्य सन्तस्य मोरारी-बापोः चरणयोः प्रणामं कृत्वा आशीर्वादं प्राप्य, मंचस्य समीपे उपविष्टः सः कथा अपि श्रुतवान्।
तस्मिन् समये मोरारी-बापुः अवदत्— “कथा साधनं न, किन्तु साध्यमेव। कथा उपलब्धिः, कथा परिणामः च। तुलसीदासेन उक्तम्— ‘कथा गोमाता इव’।”
कथास्थलं राधे-श्याम-जयकारैः भक्तिमयवातावरणेन च गुञ्जितं जातम्। अस्मिन्नेव अवसरॆ भारतीयजनतापक्षस्य राष्ट्रियमहासचिवः सांसदः च अरुणसिंहः अन्ये च जनप्रतिनिधयः ओम् बिरलस्य सह उपस्थिताः आसन्।





